शब्दकल्पद्रुमः
विशल्यः || त्रि (विगतं शल्यं यस्मात् ।) शल्य- रहितः । यथा, — “सशल्यः स समाघ्राय लक्ष्पणः परवीरहा । विशल्यो विरुजः शीघ्रमुदतिष्ठन् महीतलात् ॥” इति श्रीरामायणे युद्धकाण्डे १०२ सर्गः ॥