संस्कृत-शब्दकोशः

विशल्य विशल्यकृत्

विशल्यकरणी

वाचस्पत्यम्

विशल्यकरणी ||‍ स्त्री विशल्यं क्रियतेऽनया कृ—ल्युट् ङीप् । ओषधिभेदे “पूर्वं तु कथिता यासौ वीर! जाम्बवता तव । दक्षिणे शिखरे जातां महौषधिमिहानय । विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा । संजीव करणीं वीर! सन्धानीञ्च महौषधिम्” रामा० लङ्का० १०२ स० ।


शब्दकल्पद्रुमः

विशल्यकरणी || स्त्री (विशल्यं क्रियतेऽनयेति । विशल्य + कृ + ल्युट् । ङीप् ।)
औषधिविशेषः । यथा, —
“पूर्ब्बन्तु कथितो योऽसौ वीर जाम्बवता तव । दक्षिणे शिखरे जातां महौषधिमिहानय ॥ विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा । संजीवकरणीं वीर सन्धानीञ्च महौषधीम् ॥” इति रामायणे वाल्मीकीये युद्धकाण्डे १०३ सर्गः ॥



Correction: