वाचस्पत्यम्
विशाख || पु० विशिष्टा शाखाऽस्य । १ कार्त्तिकेये २ धन्विनां वि- तस्त्यन्तरालपादावस्थाने अमरः । ३ पुनर्नवायां राजनि० ४ याचके च मेदि० । ५ स्कन्दांशजाते देवभेदे तन्नामनि- रुक्तिः मा० व० २२६ अ० उक्ता यथा “वज्रप्रहारात् स्कन्दस्य सजातः पुरुषोऽपरः । युवा काञ्चनसन्नाहः शक्तिधृग्दिव्य- कुण्डलः । यद्वज्रवेशनाज्जातो विशाखस्तेन कीर्त्तितः” । ६ स्कन्दानुजभ्रातरि “अग्नेः पुत्रः कुमारस्तु श्रीमान् शरवनालयः । तस्य शाखो विशाखश्च नैगमे यश्च पृष्ठजः” भा० आ० ६६ अ० । ७ शिवे भा० आ० १७ अ० ।
शब्दकल्पद्रुमः
विशाखः || पुं, कार्त्तिकेयः । इत्यमरः ॥ (यथा, महाभारते । ३ । २३१ । ७ । “प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ॥”)
घन्विनां वितस्त्यन्तरेण पादसंस्थानम् । इति भरतः ॥ याचकः । इति मेदिनीकरहेमचन्द्रौ ॥ पुनर्नवा । इति राजनिर्घण्टः ॥ (विगता शाखा यस्य । शाखाविहीने, त्रि । यथा, हरिवंशे । ४८ । ५२ । “कबन्धोऽवस्थितः संख्ये विशाख इव पादपः ॥”)