संस्कृत-शब्दकोशः

विशाखल विशातन

विशाखा

वाचस्पत्यम्

विशाखा ||‍ स्त्री विशिष्टा शाखा प्रकारो यस्याः । १ बहुल- नक्षत्रात्मकेऽश्विन्यवधिके षोडशे नक्षत्रे अमरः । “विशा- खयोर्मध्यगतः सम्पूर्ण इव चन्द्रमा” रामा० प्रयोगात् तस्य द्विवचनान्ततेत्यन्ये । “बहुपुत्रो विशिखासु” भा० अ० ९ उक्तेर्बहत्वं बहुतारत्मकत्वेनेति बोध्यम् । अदोषाशब्दे ४९७ पृ० दृश्यम् । २ कठिल्लके मेदि० ।


शब्दकल्पद्रुमः

विशाखा || स्त्री कठिल्लकः । इति मेदिनी ॥ अश्वि- न्यादिसप्तविंशतिनक्षत्रान्तर्गतषोडशनक्षत्रम् । तत्पर्य्यायः । राधा २ । इत्यमरः ॥ “विशाखे द्वे । ‘पत्न्योर्मध्यगतस्तत्र सुग्रीवः प्लवगेश्वरः । विशाखयोर्मध्यगतः संपूर्ण इव चन्द्रमाः ॥’ इति रामायणम् ॥ अतएव द्वित्वमुचितं किन्तु एकतारापेक्षया एकवचनमिहोक्तम् ।” इति भरतः ॥ तस्या- रूपं तोरणाकारचतुस्तारामयम् । इति मुहूर्त्त- चिन्तामणिः ॥ “तोरणाकृतिनि पञ्चतारके तारकेशवदने विशाखभे । तन्वि यान्ति विबुधाध्वमध्यगे कुम्भतो रसभुजाः कलाः प्रिये ॥” दं । ० । २६ । इति कालिदासकृतरात्रिलग्ननिरू- पकग्रन्थः ॥ अस्या अधिदेवते शक्राग्नी । इयं मिश्रगणान्तर्गता । इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलम् । “सदानुरक्तो विविधक्रियायां सुवर्णकारैरपि सख्यमेति । यस्य प्रसूतौ च भवेत् विशाखा सखा न कस्यापि भवेत् प्रसूतः ॥” इति कोष्ठीप्रदीपः ॥



Correction: