शब्दकल्पद्रुमः
विशातनः || त्रि (वि + शत + णिच् + ल्युः ।)
मोचनकर्त्ता । (यथा, महाभारते । ७ । ८१ । १८ । “नमस्ते देवदेवेश सनातन विशातन । विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥”)
यथा च । “साधु वीर त्वया पृष्टमवतारकथां हरेः । यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥” इति श्रीभागवते ३ स्कन्धे १४ अध्यायः ॥ “मृत्योः पाशं विशातयति मोचयतीति तथा ।” इति तट्टीकायां श्रीधरस्वामी ॥ (वि + शत + णिच् + ल्युट् । पातने, क्ली । यथा, महा- भारते । ७ । १२ । १९ । “यतमानाः प्रयत्नेन द्रोणानीकविशातने । न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम् ॥”)