संस्कृत-शब्दकोशः

विशारदा विशालता

विशाल

वाचस्पत्यम्

विशाल ||‍ त्रि० वि + शालच् । १ विस्तीर्णे २ वृहति च अमरः । २ मृगभेदे ३ खगभेदे पुंस्त्री० मेदि० स्त्रिया ङीष् । ४ नृपभेदे पु० ५ वृक्षभेदे शब्दर० । ६ इन्द्रवारुण्याम् स्त्री अमरः । ७ माहेन्द्रवारुण्याम् ८ उपोदक्यां च स्त्री राजनि० । ९ उज्जयिनीनगर्य्यां स्त्री मेदि० । १० नदीभेदे च स्त्री “विशालां विरजां तथा” मुण्डनोपवासपर्यु- दासः विरजाशब्दे दृश्यः ।


शब्दकल्पद्रुमः

विशालः || त्रि (वि + “वेः शालच्छङ्कटचौ ।” इति शालच् । यद्वा, विश प्रवेशने + “तमिविशि- विडीति ।” उणा० १ । ११७ । इति कालन् ।)
बृहत् । इत्यमरः ॥ (यथा, रघुः । ६ । ३२ । “अवन्तिनाथोऽयमुदग्रबाहु- र्विशालवक्षास्तनुवृत्तमध्यः ॥” विगतः शालः स्तम्भो यस्य । स्तम्भरहितः । यथा, शिशुपालवधे । ३ । ५० । “गृहैर्व्विशालैरपि भूरिशालैः ॥”)


शब्दकल्पद्रुमः

विशालः || पुं, (विश + कालन् ।)
मृगभेदः । पक्षि- भेदः । इति मेदिनी ॥ नृपभेदः । वृक्षभेदः । इति शब्दरत्नावली ॥



Correction: