संस्कृत-शब्दकोशः

विशिप विशिष्टबुद्धि

विशिष्ट

वाचस्पत्यम्

विशिष्ट ||‍ त्रि० वि + शिष—क्त । १ युक्ते २ विलक्षणे ३ विशेषणयुक्ते च ।


शब्दकल्पद्रुमः

विशिष्टः || त्रि (वि + शिष् + क्तः । यद्बा, शास + क्तः ।)
युक्तः । यथा । हस्तानक्षत्रगङ्गा- रूपगुणद्वयविशिष्टदशमीविधेर्यस्मिन् अहनि तल्लाभस्तत्र स्नानम् । इति तिथ्यादितत्त्वे स्मार्त्त- भट्टाचार्य्यलिखनम् ॥ विशेषेण शिष्टश्च ॥ (यथा, हितोपदेशे । “समैश्च समतां याति विशिष्टैश्च विशिष्टताम् ॥”)


शब्दकल्पद्रुमः

विशिष्टः || पुं, विष्णुः । यथा । विशिष्टः शिष्टकृत् शुचिः । इति तस्य सहस्रनामस्तोत्रम् ॥



Correction: