वाचस्पत्यम्
विशीर्ण || त्रि० वि + शॄ—क्त । १ शुष्के, २ जरावस्थापन्ने ।
शब्दकल्पद्रुमः
विशीर्णः || त्रि (वि + शॄ + क्तः ।)
शुष्कः । यथा, “विशीर्णा विदला ह्रस्वा वक्राः स्थूला द्बिधा- कृताः । क्रिमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥” इति तन्त्रसारः ॥