संस्कृत-शब्दकोशः

विशेषगुण विशेषणासिद्ध

विशेषण

वाचस्पत्यम्

विशेषण ||‍ न० विशिष्यतेऽनेन वि + शिष—ल्युट् । भेदकधर्मे गुणक्रियादौ यथा नीलम् उत्पलं चलो गौरित्यादौ गुणक्रियादिर्भेदकधर्मः । विशेषणञ्च त्रिविधं व्यावर्त्तकं विधेयं हेतुगर्भञ्च । तत्राद्यं नीलो घट इत्यादौ नीलः, द्वितीयं पर्वतो वह्निमान्” अत्र वह्निर्विधेयविशेषणम् । “न्यक्कारो ह्ययमेव मे यदरयः” इत्यादौ लक्कारोविधेयः । तृतीयं यथा सुरापः पततीत्यादौ सुरा- पानं हेतुगर्भविशेषणम् । तस्य भावः तल् । विशेषणताप्रका- रताख्यविषताभेदे स्वरूपसम्बन्धविशेषे च स्त्री । स च तत्- पदजन्यबोधविषयत्वेन शक्तिविषयत्वरूपः । अभावप्रत्यक्षे सन्निकर्षभेदे च । यथा घटाभाववद् भूतलमित्यादि चाक्षुष- प्रत्यक्षे भूतलांशे घटाभावस्य विशेषणता सन्निकर्षः । “विशेषणतया तद्वदभावानां ग्रहो भवेत्” भाषा० । सा च नानाविधा यथोक्तं “यद्यपि विशेषणता नानाविधा तथाहि भूतलादौ घटा- भावः संयुक्तविशेषणतया गृह्यते, संख्यादौ रूपत्वाद्य- भावः संयुक्तसमवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावः संयुक्तसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्रावच्छिन्न- विशेषणतया । कत्वादौ खत्वाद्यभावः श्रोत्रावच्छिन्न- समवेतविशेषणतया । एवं कत्वावच्छिन्नाभावे खत्वा- भावादिकं विशेषणविशेषणतया । एवं घटाभावादौ पटाद्यभावः संयुक्तविशेषणविशेषणतया । एवमन्यदप्यूहं तथापि विशेषणतात्वरूपेणैकेव सा गण्यते । अन्यथा षोढा सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि० मुक्ता० । “प्रत्यक्षं समवायस्य विशेषणतया भवेत्” भाषा० उक्तेः समवायप्रत्यक्षसन्निकर्षभेदे च ।


शब्दकल्पद्रुमः

विशेषणं || क्ली (विशिष्यतेऽनेनेति । वि + शिष + ल्युट् ।)
विशेष्यधर्म्मः । स तु गुणादिः । यथा । नीलोत्पलमित्यादि । विशिष्यते सम्बुध्यते अनेन । छत्रेण छात्रमद्राक्षीदिति । भेदयति अन्यपदार्थं पृथक् करोति इति भेदकम् । नाम्ना शिवः गोत्रेण गार्ग्यः । विशेषणं दृष्टमेव भेदयति । भेदकन्तु अदृष्टमेव भेदयति । इति विशेषण- भेदकयोर्भेदः । इति मुग्धबोधटीकायां दुर्गा- दासः ॥



Correction: