वाचस्पत्यम्
विशेषगुण || पु० कर्म० । “बुद्ध्यादिषटकं रूपादिचतुष्कं स्नेहभावने । स्वाभाविकद्रवत्वञ्च अदृष्टे शब्द एव च” भाषा० उक्तेषु गुणभेदेषु ।
शब्दकल्पद्रुमः
विशेषगुणः || पुं, (विशेषो गुणः ।)
बुद्ध्यादिषट्कम् । रूपादिचतुष्टयः । स्नेहः । स्वाभाविकद्रवत्वम् । अदृष्टः । भावना । शब्दः । इति भाषापरि- च्छेदः ॥