वाचस्पत्यम्
विशेष्यासिद्ध || पु० स्वरूपासिद्धे हेत्वाभासभेदे । यो हेतुः स्वघटकविशेष्यस्वरूपः पक्षे न तिष्ठति तादृशे हेतौ यथा- शब्दो नित्योऽस्पार्शत्वे सति द्रव्यत्वादित्यादौ अत्र अस्पार्श- त्वविशिष्टं द्रव्यत्वं हेतुः तत्र विशिष्यं दूव्यत्वं शब्दे- ऽसिद्धमिति स्वरूपासिद्धो हेतुः ।