वाचस्पत्यम्
विशेष्य || त्रि० विशिष्यते भेद्यते गुणादिभिरसौ वि + शिष- कर्मणि ण्यत् । गुणादिभिर्भद्ये १ व्यवच्छेद्ये पदार्थे २ धर्मिणि च । तस्य भावः तल् । विशेष्यता विष- ताविशेषे स च तज्ज्ञानीययत्किञ्चित्प्रकारतानिरू- पितः संसर्गविषताभिन्नः विषयताविशेषः इति प्राञ्चः । तत्र समानाधिकरणा प्रकारता विशेष्यता च एकैवेति जगदीशः । तयोर्भिन्नत्वम् अवच्छेद्यावच्छेदकभावश्चेति गदाधरः । यथा घटाभाववद् भूतलमित्यादौ घटनिष्ट- प्रकारतानिरूपिता या अभावनिष्ठा विशेष्यता सैव तदवच्छेद्या वा या अभावनिष्ठा प्रकारता तन्निरूपिता भूतलनिष्ठविशेष्यतेति प्राञ्चः । स्वरूपसम्बन्धविशेष इत्यन्ये ।
शब्दकल्पद्रुमः
विशेष्यः || त्रि (विशिष्यते गुणादिभिरिति । वि + शिष + ण्यत् ।)
धर्म्मिपदार्थः । स च द्रव्यादिः । विशिष्यते यः । घटपटादिः । भासमान- वैशिष्ट्यानुयोगी । अस्य लक्षणं यथा । भास- मानवैशिष्ट्यानुयोगित्वं अस्ति च घट इति ज्ञाने घटादौ तत् तत्र हि भासमानवैशिष्ट्यं घटघटत्वयोः सम्बन्धस्तदनुयोगित्वस्य घटादौ सत्त्वात् । अनुयोगित्वमपि स्वरूपसम्बन्धविशेषः प्रतियोगित्वमनुयोगित्वञ्चातिरिक्तपदार्थ इत्य- प्येकदेशिनः । इति कणादः ॥