वाचस्पत्यम्
विश्न || पु० विश—दीप्तौ भावे नङ् । दीप्तौ सि० कौ० ।
शब्दकल्पद्रुमः
विश्नः || पुं, (विच्छ दीप्तौ + “यजयाचयतविच्छेति ।” ३ । ३ । ९० । इति नङ् ।) दीप्तिः । इति सिद्धान्तकौमुदी ॥ गतिः । इति मुग्धबोध- टीकायां दुर्गादासः ॥