संस्कृत-शब्दकोशः

विश्रम विश्राणन

विश्रम्भ

वाचस्पत्यम्

विश्रम्भ ||‍ पु० वि + श्रन्म—घञ् । १ विश्वासे अमरः । २ प्रणये ३ केलिकलहे मेदि० ३ बधे च विश्वः ।


शब्दकल्पद्रुमः

विश्रम्भः || पुं, (वि + श्रन्भ + घञ् ।)
विश्वासः । इत्यमरः ॥ (यथा, भागवते । ३ । २३ । २ । “नित्यं पर्य्यचरत् प्रीत्या भवानीव भवं प्रभुम् । विश्रम्भेणात्मशौचेन गौरवेण दमेन च ॥”)
केलिकलहः । प्रणयः । इति मेदिनी । भे, २० ॥ वधः । इति विश्वः ॥



Correction: