संस्कृत-शब्दकोशः

विश्वमदा विश्वम्भरा

विश्वम्भर

वाचस्पत्यम्

विश्वम्भर ||‍ पु० विश्वं विभर्त्ति भृ—अच् मुम् च । १ इन्द्रे अमरः २ विष्णौ च । ३ पृथिव्यां स्त्री ।


शब्दकल्पद्रुमः

विश्वम्भरः || पुं, (विश्वं बिभर्तीति । भॄ + “संज्ञायां भॄहॄवृजीति ।” ३ । २ । ४६ । इति खच् । “अरु- र्द्विषदिति ।” ६ । ३ । ६७ । इति मुम् ।)
विष्णुः । (यथाह कश्चित् । “विश्वम्भर ! भरास्माकं विश्वस्माद्बा वहिःकुरु । अथ पक्षद्वयाभावे त्यज विश्वम्भरत्वकम् ॥”)
इन्द्रः । इति मेदिनी । रे, २९५ ॥



Correction: