शब्दकल्पद्रुमः
विश्वसितः || त्रि (वि + श्वस + क्तः ।) विश्वस्तः । इति मुग्धबोधव्याकरणम् ॥ (यथा, नैषधे । १ । १३१ । “ब केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः ॥”)