वाचस्पत्यम्
विश्वसृज् || पु० विश्वं सृजति सृज—क्विन् । चतुर्मुखे ब्रह्मणि अमरः । हलादौ कुः विश्वसृक् विश्वसृग्भ्वामित्यादि
शब्दकल्पद्रुमः
विश्वसृक् || [ज्] पुं, (विश्वं सृजतीति । सृज् + क्विप् ।)
ब्रह्मा । इत्यमरः ॥ (विश्वस्रष्टरि, त्रि । यथा, रघुः । १० । १६ । “नमो विश्वसृजे पूर्ब्बं विश्वं तदनु विभ्रते । अथ विश्वस्य संहर्त्ते तुभ्यं त्रेधा स्थितात्मने ॥”)