वाचस्पत्यम्
विश्वाची || स्त्री विश्वमञ्चति अन्च—क्विप् । १ अप्सरोभेदे वह्निपु० । २ वाहुरोगभेदे भावप्र० तल्लक्षणादि० तत्रोक्तं यथा “अथ विश्वाचीलक्षणमाह “तलं प्रत्यङ्गलीनां या कण्डरा बाहुपृष्टतः । व ह्वेः कर्मक्षयकरी वि- वाचो सा निगद्यते” । कण्डरा महास्नायुः तलं हस्त स्योपरिभागः तलशब्दोऽत्र उपरिवाचकः यथा भूमितल- मिति । तेनायमर्थः बाहुपृष्ठतः बाह्वोः पृष्ठं बाहुपृष्ठ- मारभ्य तलं प्रतिहस्ततलं यावल्लक्षीकृत्य अङ्गुलीनां काण्डरास्ताः सन्दूष्य बाह्वोः प्रसारणाकुञ्चनादिकर्म- क्षयकरी भवति सा इह वातष्याघिषु विश्वाचीत्युच्यते व ह्वोरिति द्वित्वं सम्भवपरम् । एकस्मिन्नपि वाहौ विश्वाची भवति” भावप्र० ।
शब्दकल्पद्रुमः
विश्वाची || स्त्री अप्सरोविशेषः । यथा, —
“उर्व्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा । विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥ भानुमत्यबला वर्च्चा द्वादशाप्सरसः शुभाः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (बाहुरोगविशेषः । तल्लक्षणादिकं यथा, —
“अथ विश्वाचीलक्षणमाह । ‘तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः । बाह्वोः कर्म्मक्षयकरी विश्वाची नाम सा स्मृता ॥” कण्डरा महास्नायुः तलं हस्तस्योपरिभागः । तलशब्दोऽत्र उपरिवाचकः यथा भूमितल- मिति । तेनायमर्थः । बाहुपृष्ठतः बाह्वोः पृष्ठं बाहुपृष्ठमारभ्य तलं प्रतिहस्ततलं यावल्लक्षी- कृत्य कण्डरास्ताः सन्दूष्य बाह्वोः प्रसारणा- कुञ्चनादिकर्म्मक्षयकरा भवति सा इह वात- व्याधिषु विश्वाचीत्युच्यते बाह्वोरिति द्वित्वं सम्भवपरम् । एकस्मिन्नपि बाहौ विश्वाची भवति ।” इति भावप्रकाशः ॥)