संस्कृत-शब्दकोशः

विश्वाराज् विश्वास

विश्वावसु

वाचस्पत्यम्

विश्वावसु ||‍ पु० विश्वेषां वसु यस्मात् पृषो० दीर्घः । १ गन्धर्वभेदे २ रात्रौ स्त्री मेदि० ।


शब्दकल्पद्रुमः

विश्वावसुः || पुं, (विश्वं वसु यस्य । “विश्वस्य वसु- राटोः ।” ६ । ३ । १२८ । इति पूर्ब्बपदान्तस्य दीर्घः ।)
गन्धर्व्वभेदः । इति मेदिनी ॥ यथा, —
“अभ्राजोऽङ्घारिवग्भारी सूर्य्यवर्च्चास्तथा कृधुः । हस्तः सुहस्तः स्वाञ्चैव मूर्द्ध्वन्वांश्च महामनाः । विश्वावसुः कृशानुश्च गन्धर्व्वैकादशो गणः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (विष्णुः । यथा, महाभारते । ६ । ६२ । ४५ । “विश्वावसुर्विश्वमूर्त्तिर्विश्वेशो विश्वक्सेनो विश्वकर्म्मा वशो च ॥” * ॥
वत्सरविशेषः । यथा, बृहत्संहितायाम् । ८ । ४१ । “क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥” तत्फलं यथा, चिन्तामणिधृतवचनम् । “सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता । विश्वावसौ वरारोहे कार्पासस्य महार्घता ॥”)
निशि स्त्री । इति मेदिनी ॥



Correction: