संस्कृत-शब्दकोशः

विश्वावसु विश्वासघातक

विश्वास

वाचस्पत्यम्

विश्वास ||‍ पु० वि + श्वस—घञ् । इदमित्थमेवेत्याकारे १ चित्त- वृत्तिभेदे प्रत्यये अमरः । २ श्रद्धायाञ्च “नखिनाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः” चाणक्यः


शब्दकल्पद्रुमः

विश्वासः || पुं, (वि + श्वस + घञ् ।)
प्रत्ययः । तत्- पर्य्यायः । विश्रम्भः २ । इत्यमरः ॥ आश्वासः ३ आश्रमः ४ । इति शब्दरत्नावली ॥ * ॥
“लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः । तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥ सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्- झितः । तन्मित्रं यस्य विश्वासः पुरुषः स जितेन्द्रियः ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥ “यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती । एतावानिति कृष्णस्य प्रभावः परिमीयते ॥” इति तत्रैव २३४ अध्यायः ॥ “न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥” इति च गारुडे ११४ अध्यायः ॥ * ॥
“नखिनाञ्च नदीनाञ्च शृङ्गिणा शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥ न विश्वसेदविश्वस्तं मित्रञ्चापि न विश्वसेत् । कदाचित् कुपितं मित्रं गुप्तदोषं प्रकाशयेत् ॥” इति चाणक्यम् ॥



Correction: