शब्दकल्पद्रुमः
विश्वासघातकः || त्रि विश्वासं हन्ति यः । (विश्वास + हन् + ण्वुल् ।) विश्रम्भनाशकः । यथा, — “न भाराः पर्व्वता भारा न भाराः सप्त सागराः । निन्दका हि महाभारा भारा विश्वास- घातकाः ॥” इति कर्म्मलोचनम् ॥