संस्कृत-शब्दकोशः

विषघ्न विषजिह्व

विषघ्नी

शब्दकल्पद्रुमः

विषघ्नी || स्त्री (विषं हन्ति या । हन + टक् । स्त्रियां ङीप् ।)
हिलमोचिका । इति त्रिकाण्ड- शेषः ॥ (अस्याः पर्य्यायो यथा, —
“मारी विषघ्नी मत्स्याङ्की चक्राङ्गी हिल- मोचिका ॥” इति वैद्यकरत्नमालायाम् ॥)
इन्द्रवारुणी । वनवर्व्वरिका । स्वल्पफला । भूम्यामली । रक्तपुनर्नवा । हरिद्रा । वृश्चि- काली । (अस्याः पर्य्यायो यथा, —
“वृश्चीपत्री वृश्चिकाली विषघ्नी नागदन्तिका । सर्पदंष्ट्रामराकाली चोष्ट्रधूषरपुच्छिका ॥” इति वैद्यकरत्नमालायाम् ॥)
महाकरञ्जः । इति राजनिर्घण्टः ॥ (हवुषा । तत्पर्य्यायो यथा, —
“हवुषा पुष्पवन्ता च पराश्वत्थफला मता । मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥” देवदाली । तत्पर्य्यायो यथा, —
“देवदाली तु वेणी स्यात् कर्कटी च गरागरी । देवताण्डी वृत्तकोशस्तथा जीमूत इत्यपि । पीतापरा खरस्पर्शा विषघ्नी गरनाशिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: