वाचस्पत्यम्
विषम || त्रि० विगतो विरुद्धो वा समः । १ असमे २ अयुग्मे (वियोड) ३ उन्नतानते ४ दारुणे ५ सङ्कटे च “भिन्नचिह्न- चतुष्पादं विषमं परिकीर्त्तितम्” इत्युक्ते ६ पद्यभेदे न० । “ओजोथ युग्मं विषमः समश्च” ज्यो० त० उक्ते ७ मेषमिथुना- द्यसमराशौ पु० । ८ तालभेदे पु० “चतुर्विधः परिज्ञेयस्तालः कङ्कणनामकः । पूर्णः १ खण्डः २ सम ३ श्चैव विषम ४ श्चैव कथ्यते । नचतुष्कं गलौ पूर्णे १ खण्डे २ विन्दुद्वयं गुरुः । यगणस्तु समे ज्ञेयस्तमयट्गणो विषमे भवेत्” सङ्गीत० । विषमादागतः विषमय, रूप्यप्, विषमरूप्य छ, विषमीय विषमादायते त्रि० सि० कौ० ।
शब्दकल्पद्रुमः
विषमं || क्ली पद्यस्य त्रिविधवृत्तान्तर्गतवृत्तविशेषः ॥ यथा, —
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” इति छन्दोमञ्जर्य्यां प्रथमस्तवकः ॥ वर्गमूलोक्तोर्द्ध्वरेखा । यथा, —
“त्यक्त्वान्त्याद्बिषमात् कृतिं द्विगुणयेन्मूलं समे तद्धृते त्यक्त्वा लब्धकृतिन्तदाद्यविषमाल्लब्धं द्विनिघ्नं न्यसेत् । पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गं फलं पङ्क्त्यान्तद्द्विगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं स्यात् पदम् ॥” इति लीलावती ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । “यद्वारब्धस्य वैकल्यं अनर्थस्य च सम्भवः । विरूपयोः सङ्घटना या च तद्विषमं मतम् ॥” उदाहरणम् । “क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”)
शब्दकल्पद्रुमः
विषमं || त्रि असमानम् । यथा, मनुः । “भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह । न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥” इति दायतत्त्वम् ॥ (सङ्कटः । यथा, गीतायाम् । २ । २ । “कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥” अनतिक्रमणीयः । यथा, साहित्यदर्पणे । १० । “का विषमा दैवगतिः किं दुर्ग्राह्यं जनः खलो लोके ॥”)
शब्दकल्पद्रुमः
विषमः || पुं, अयुग्मराशिः । स तु मेषः मिथुनः सिंहः तुला धनुः कुम्भश्च । यथा, —
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ तालविशेषः । यथा, सङ्गीतदामोदरे । “चतुर्व्विधः परिज्ञेयस्तालः कङ्कणनामकः । पूर्णः खण्डः समश्चैव विषमश्चैव कथ्यते ॥ लचतुष्कं गणौ पूर्णे खण्डे बिन्दुद्वयं गुरुः । यगणस्तु समे ज्ञेयस्तगणो विषमे भवेत् ॥” (जठराग्निविशेषः । यथा, —
“मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः । विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमि- त्तजान् ॥” इति वैद्यकरुग्विनिश्चये मन्दाग्न्यधिकारे ॥)