वाचस्पत्यम्
विषमस्थ || त्रि० विषमे उन्नतानते सङ्कटे वा तिष्ठति स्था- क । १ उपद्रवप्राप्ते २ सङ्कटस्थे ३ उन्नतानतदेशस्थे म ।
शब्दकल्पद्रुमः
विषमस्थः || त्रि (विषमे तिष्ठतीति । स्था + कः ।)
असमानस्थितः । इति केचित् ॥ उपप्लव- देशस्थः । यथा नारदः । “अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नासेध्या न चैतान्नाह्वयेन्नृपः ॥” विषमस्थाः उपप्लवदेशस्थाः । इति व्यवहार- तत्त्वम् ॥