शब्दकल्पद्रुमः
विषमाक्षः || पुं, (विषमं अयुग्मं अक्षि यस्य । त्रिनयनत्वादस्य तथात्वम् ।) शिवः । इति त्रिकाण्डशेषः ॥