वाचस्पत्यम्
विषमायुध || पु० विषमाणि अयुग्मानि पञ्च आयुधानि वाणा यस्य । पञ्चशरे कामे हला० विषमेष्वादतोऽप्यत्र ।
शब्दकल्पद्रुमः
विषमायुधः || पुं, (विषमा अयुग्मा आयुधा यस्य । तस्य पञ्चबाणत्वात्तथात्वम् । यद्वा, विषमः अत्युग्र असह्य इत्यर्थः आयुधो यस्य ।)
कामदेवः । इति हलायुधः ॥