संस्कृत-शब्दकोशः

विषाणिका विषाणी

विषाणिन्

वाचस्पत्यम्

विषाणिन् ||‍ पु० विषाणमस्त्यस्य इनि । १ शृङ्गिणि २ हस्तिनि च अमरः । ३ शृङ्गाटके ४ ऋषभौषधे च पु० राजनि० ।


शब्दकल्पद्रुमः

विषाणी || [न्] पुं, (विषाणमस्यास्तीति । विषाण + इनिः ।)
हस्ती । शृङ्गी । इत्यजयः ॥ (यथा, हरिवंशे । २०४ । २२ । “खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा ॥”)
ऋषभनामौषधम् । शृङ्गाटकः । इति राज- निर्घण्टः ॥



Correction: