वाचस्पत्यम्
विष्क || हिंसायां चु० आ० सक० सेट् । विष्कयते अविविष्कत दर्शने उभ० सेट् । विष्कयति ते अविविष्कत् त ।