संस्कृत-शब्दकोशः

विषौषधी विष्क

विष्

वाचस्पत्यम्

विष् ||‍ स्त्री विष—क्विप् । १ विष्ठायाम् अमरः २ कन्यायां च विट्पतिः ।


शब्दकल्पद्रुमः

विट् || [ष्] स्त्री, (विष व्याप्तौ + क्विप् ।)
विष्ठा । इत्यमरः ॥ कन्या । इति विट्पतिशब्ददर्श- नात् ॥ (व्याप्ते, त्रि । यथा, ऋग्वेदे । ८ । १९ । ११ । “हव्या वा वेविषद्विषः ।” “विषः व्याप्तान् देवान् वेविषत् प्रापयेत् ।” इति तद्भाष्ये सायणः ॥)


शब्दकल्पद्रुमः

विड् || [ष्] स्त्री, विष्ठा । इति विड्गन्धादिशब्द- दर्शनात् ॥



Correction: