वाचस्पत्यम्
विष्कम्भ || पु० वि + स्कन्भ—अच् । सूर्य्यचन्दयोगजातयोग- मध्ये प्रथमे १ योगे ज्यो० त० २ विस्तारे ३ प्रतिबन्धे ४ रूप- कनाटकाङ्गमेदे “अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रयेशकौ । चूलिकाङ्कावतारोऽथ स्यादङ्गमुखमित्यपि । वृत्तवर्त्ति- माणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः । मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः । शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यम- कल्पितः” सा० द० । ५ योगिनां बन्धभेदे मेदि० ६ वृक्षे अजयः ७ अवष्टम्भके अमरः । ८ कीलकादौ च भरतः । ९ पर्वतभेदे विपुलशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
विष्कम्भः || पुं, सप्तविंशतियोगान्तर्गतप्रथमयोगः । शुभकर्म्मणि तस्य पञ्च दण्डास्त्याज्याः । यथा, —
“त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः । गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्ज्जयेत् ॥” इति सत्कृत्यमुक्तावली ॥ * ॥
तत्र जातफलम् । “विष्कम्भयोगो यदि जन्मकाले कार्य्ये स्वतन्त्रो मनुजस्तदानीम् । सुहृत्कलत्रात्मजसौख्यमुग्रं गृहस्य निर्म्माणविधौ समर्थः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
विस्तारः । (यथा, बृहत्संहितायाम् । ५३ । २४ । “उच्छ्रायोऽङ्गुलतुल्यो द्वारस्यार्द्धेण विष्कम्भः ॥”)
प्रतिबन्धः । रूपकाङ्गप्रभेदः । योगिनां बन्ध- भेदः । इति मेदिनी । भे, १९ ॥ वृक्षः । इत्य- जयः ॥ अर्गला । इति भरतः ॥