वाचस्पत्यम्
विष्टम्भ || पु० वि + स्तत्भ—घञ् । १ प्रतिबन्धे २ आनाहे रोग- मेदे च आनाहशब्दे ७२९ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विष्टम्भः || पुं, (वि + स्तन्भ + क्तः ।)
प्रतिबन्धः । (यथा, भागवते । ५ । २२ । १२ । “स वृष्टिविष्टम्भग्रहोपशमनः ॥” * ॥
आक्रमणम् । यथा, भारविः । १३ । १६ । “प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् ॥”)
रोगविशेषः । इति मेदिनी । भे, २० ॥ स तु आनाहरोगः । तस्य लक्षणमाह । “आमं सकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन । प्रवर्त्तमानं नयथास्वमेनं विकारमानाहमुदाहरन्ति ॥” आमं अपक्वमाहारसारं शकृत् पुरीषं वा क्रमेण निचितं सञ्चितम् । भूयो विगुणानिलेन दुष्टवायुना विबद्धं व्यामशोषितं वा यथास्वं पूर्ब्बवदप्रवर्त्तमानं एनं विकारं आनाह- माहुः ॥ * ॥
तत्रामजमानाहमाह । “तस्मिन् भवत्यामसमुद्भवे तु तृष्णा प्रतिश्यायशिरोविदाहाः । आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनञ्च ॥” विघातनं अप्रवृत्तिः ॥ * ॥
शकृत्सञ्चयजमाह । “स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतो वमिश्च । श्वासश्च पक्वाशयजे भवन्ति तथालसोक्तानि च लक्षणानि ॥” पक्वाशयजे शकृत्सञ्चयजे । अलसोक्तानि आध्मानवातनिरोधादीनि ॥ * ॥
आनाहोदा- वर्त्तयोश्चिकित्सायास्तुल्यत्वादुभयचिकित्सा अत्र लिख्यते । अथोदावर्त्तानां चिकित्सा । “अधोवातनिरोधोत्थे ह्युदावर्त्ते हितं मतम् । स्नेहपानं तथा स्वेदो वस्तिर्यच्चानुलोमनम् ॥ विड्विघातसमुत्थे तु विड्भेव्यन्नं तथौषधम् । वर्त्त्यभ्यङ्गावगाहश्च स्वेदो वस्तिर्हितो मतः ॥” वर्त्तिः फलवर्त्तिः । “मूत्रावरोधजनिते क्षीरवारिवचां पिबेत् । दुष्पर्शास्वरसं चापि कषायं ककुभस्य च ॥ दुष्पर्शा कण्टकारी दुरालभा च तुल्यगुणत्वात् । एर्व्वारुबीजं तोयेन पिबेद् वा लवणीकृतम् । सितामिक्षुरसं क्षीरं द्राक्षारसमथापि वा ॥ सर्व्वथैव प्रकुर्व्वीत मूत्रकृच्छ्राश्मरीविधिम् । जृम्भाभिघातजे स्नेहं स्वेदं चापि प्रयोजयेत् ॥ अन्यानपि प्रयुञ्जीत समीरणहरान् विधीन् । नेत्रनीरावरोधोत्थे मुञ्चेदुच्चैर्दृ शोर्जलम् ॥ सुप्यात् सुखेन तस्याग्रे कथयेच्च कथाः प्रियाः । छिक्काभिघातजे तीक्ष्णाघ्राणनस्यार्कदर्शनैः ॥ प्रवर्त्तयेत् क्षुतं सक्तं स्नेहस्वेदौ प्रशीलयेत् ॥” तीक्ष्णं मरीचराजिकादि । “उद्गारस्यावरोधे तु स्नैहिकं धूममाचरेत् ॥ छर्द्दिनिग्रहसंजाते वमनं लङ्घनं हितम् । विरेचनं चात्र मतं तैलेनाभ्यञ्जनं तथा ॥ वस्तिशुद्धिकरैः सिद्धं चतुर्गुणजलं पयः । आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः ॥ रमयेयुः प्रिया नार्य्यः शुक्रोदावर्त्तिनं नरम् । तस्याभ्यङ्गोऽवगाहश्च मदिरा चरणायुधः ॥ शालिः पयो निरूहश्च हितं मैथुनमेव च । क्षुद्विघातसमुद्भूते स्निग्धमुष्णं तथा लघु ॥ रूच्यमल्पं हितं भक्ष्यं पुष्पं सेव्यं सुगन्धि यत् । तृषाविघातसंभूते शीतः सर्व्वो विधिर्हितः ॥ कर्पूरशिशिरं स्वल्पं पिबेत्तोयं शनैः शनैः । श्रमश्वासे धृते शस्तो विश्रामः सरसौदनः ॥ निद्रावेगविघातोत्थे पिबेत्क्षीरं सितायुतम् । सुवाहनं सुशय्यात्र हिताः श्रोत्रप्रियाः कथाः ॥” वातादिवेगविघातजनितानामुदावर्त्तानां चिकि- त्सामभिधाय रूक्षादिकुपितवातजनितस्य उदा- वर्त्तस्य चिकित्सामाह । “हिङ्गुमाक्षिकसिन्धूत्थैः पिष्टैर्वर्त्तिविनिर्म्मिताम् । घृताभ्यक्तां गुदे न्यस्येदुदावर्त्तविनाशिनीम् ॥” फलवर्त्तिः । “मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः । गुडक्षीरसमायुक्ता फलवर्त्तिरिहोदिता ॥” मदनफलादिवर्त्तिः ॥ * ॥
“खण्डपलं त्रिवृताक्षः कृष्णाकर्षं द्बयोश्चूर्णम् । प्राग्भोजनस्य मधुना विडालपदकं नरो लिह्यात् ॥ एतद्गाढपुरीषे देयं विज्ञैरुदावर्त्ते । मधुरं नरपतियोग्यं चूर्णं नाराचकं नाम्ना ॥” इति नाराचचूर्णम् ॥ * ॥
“सव्योषं पिप्पलीमूलं त्रिवृद्दन्ती च चित्र- कम् । तच्चूर्णं गुडसंमिश्रं भक्षयेत् प्रातरुत्थितः ॥ एतद्गुडाष्टकं नाम्ना बलवर्णाग्निवर्द्धनम् । उदावर्त्तप्लीहगुल्मशोथपाण्ड्वामयापहम् ॥” इति गुडाष्टकम् ॥ * ॥
“मूलकं शुष्कमार्द्रञ्च वर्षाभूपञ्चमूलकम् । कृतमालफलं चाप्सु पक्त्रा तेन घृतं पचेत् । तत् पीतं शमयेत् क्षिप्रमुदावर्त्तमशेषतः ॥” पञ्चमूलकमत्र बृहत् । शुष्कमूलकाद्यघृतम् ॥ * ॥
अथ आनाहस्य चिकित्सा । “तुल्यकारणकार्य्यत्वादुदावर्त्तहरीं क्रियाम् । आनाहेऽपि च कुर्व्वीत विशेषश्चाभिधीयते ॥ त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः । गुडेन तुल्या वटिका हरन्त्यानाहमुल्वणम् ॥ वर्त्तिस्त्रिकटुसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः । मधुनि गुडे वा पक्वैर्निहिता स्वाङ्गुष्ठपरि- माणाः ॥ वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृता- भ्यक्ते । आनाहोदावर्त्तौ शममति जठरं तथा गुल्मम् ॥” त्रिकटुकाद्या वर्त्तिः ॥ इति भावप्रकाशः ॥ (त्रि, विशेषेण स्तम्भयिता । यथा, ऋग्वेदे । ९ । ८६ । ३५ । “दिवो विष्टम्भ उपमो विचक्षणः ॥”)