वाचस्पत्यम्
विष्टरश्रवस् || पु० विष्टरः कुशमुष्टिरिव श्रवसी कर्णौ यस्य । विष्णौ अमरः ।
शब्दकल्पद्रुमः
विष्टरश्रवाः || [स्] पुं, (“विष्टराविव श्रवसी यस्येति ।” शिशुपालवधस्य १४ । १२ । टीकायां मल्लिनाथः । “विष्टरेऽश्वत्थवृक्षे श्रूयते नित्यं तत्र वसतीति ।” उणा० ४ । २२६ । इत्यत्र उज्ज्वल- दत्तः ।)
विष्णुः । इत्यमरः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । ५१ । १७ । “उत्पाट्य वृक्षं दैत्येन्द्रः शतशाखं महाशिखम् । तेन तं पोथयामास विष्टरस्रवसं प्रभुम् ॥”)