संस्कृत-शब्दकोशः

विष्टम्भिन् विष्टरश्रवस्

विष्टर

वाचस्पत्यम्

विष्टर ||‍ पु० वि + स्तृ—अप् षत्वम् । “ऊर्द्धकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः” इति “वामावर्त्तस्तु विष्टर” इति च स्मृत्युक्ते दर्भकृते १ आसनभेदे २ आसनमात्रे ३ वृक्षे ४ कुशमुष्टौ च अमरः ।


शब्दकल्पद्रुमः

विष्टरः || पुं, (विस्तीर्य्यते इति । वि + स्तॄ + अप् । “वृक्षासनयोर्विष्टरः ।” ८ । ३ । ९३ । इति निपातनात् षत्वम् ।)
विटपी । दभमुष्टिः । पीठाद्यासनम् । इत्यमरः ॥ आदिना कुशा- सनादिग्रहः । इति भरतः ॥ * ॥
(यथा, भागवते । ३ । २८ । १६ । “काञ्चीगुणोल्लसत्श्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयनवर्द्धनम् ॥”)
विष्टरलक्षणमाह । विष्टरस्तु सार्द्धद्बितयवामा- वर्त्तवलिताधोमुखाग्रा असंख्यातदर्भाः । तथा च गृह्यासंग्रहः । “ऊर्द्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः । दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः ॥” इति ॥ छन्दोगपरिशिष्टम् । “दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि ॥” एवञ्च । “पञ्चाशद्भिर्भैवेद्ब्रह्मा तदर्द्धेन तु विष्टरः ॥” इति यदि समूलं तदा शाख्यन्तरीयम् । एतेन विष्टरे पञ्चविंशतिसंख्या भवदेवभट्टोक्ता निरस्ता । एवं विष्टरग्रहणं हस्ताभ्यामपि यदुक्तं तदपि निरस्तम् । “यत्रोपदिश्यते कर्म्म कर्त्तुरङ्गं न चोच्यते । दक्षिणस्तत्र विज्ञेयः कर्म्मणां पारगः करः ॥” इति छन्दोगपरिशिष्टात् । इति संस्कार- तत्त्वम् ॥



Correction: