वाचस्पत्यम्
विष्ठा || स्त्री विविष तिष्ठति स्था—क षत्वम् । १ उदरे शब्दमाला २ पुराषे अमरः ।
शब्दकल्पद्रुमः
विष्ठा || स्त्री (विविधप्रकारेण तिष्ठति उदरे इति । वि + स्था + कः । उपसर्गादिति षः ।)
विविध- प्रकारेणोदरे तिष्ठति या । तत्पर्य्यायः । उच्चारः २ अवस्करः ३ शमलम् ४ शकृत् ५ गूथम् ६ पुरीषम् ७ वर्च्चस्कम् ८ विट् ९ । इत्यमरः ॥ वर्च्चः १० । इति जटाधरः ॥ अमेध्यम् ११ दूर्य्यम् १२ कल्लम् १३ मलम् १४ । इति शब्दरत्ना- वली ॥ किट्टम् १५ पूतिकम् १६ । इति राज- निर्घण्टः ॥ (यथा, —
“गुरोर्हितं प्रकर्त्तव्यं वाङ्मनःकायकर्म्मभिः । अहिताचरणादेव विष्ठायां जायते क्रिमिः ॥” इति कृष्णानन्दीयतन्त्रसारे ॥)
तद्दर्शननिषेधो यथा, —
“न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम् ॥” जले तदुत्सर्गनिषेधो यथा, —
“नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाच- रेत् । नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ तदुत्सर्गविधानं पुरीषप्रातःकृत्यशब्दयोर्द्रष्ट- व्यम् ॥