वाचस्पत्यम्
विष्णुगुप्त || पु० १ चाणक्ये मुनौ अयमेव वात्स्यायनत्वेन पक्षिलत्वेन प्रसिद्धः त्रिका० । ३ त० । विष्णुना गुप्ते मुन्यादौ २ देवादौ ३ सन्दभेदे राजनि० ।
शब्दकल्पद्रुमः
विष्णुगुप्तः || पुं, (विष्णुना गुप्तः ।)
वात्स्यायनमुनिः । यथा, —
“विष्णुगुप्तस्तु कौण्डिन्यश्चाणक्यो द्रोमिणोऽङ्गुलः । वात्स्यायनो मन्दनागः पक्षिलस्वामिनावपि ॥” इति त्रिकाण्डशेषः ॥ विष्णुकन्दः । इति राजनिर्घण्टः ॥