संस्कृत-शब्दकोशः

विष्णुकान्ता विष्णुगुप्त

विष्णुक्रान्ता

शब्दकल्पद्रुमः

विष्णुक्रान्ता || स्त्री अपराजिता । इत्यमरः ॥ अपरा- जिताया अन्या क्षुपजातिः । तत्पर्य्यायः । हरिक्रान्ता २ नीलपुष्पा ३ अपराजिता ४ नीलक्रान्ता ५ सुनीला ६ विक्रान्ता ७ छर्द्दिका ८ । अस्या गुणाः । कटुत्वम् । तिक्त- त्वम् । कफवातामयविषदोषनाशित्वम् । मेधा- कारित्वम् । पावनित्वम् । शुभदत्वञ्च । इति राजनिर्घण्टः ॥



Correction: