वाचस्पत्यम्
विष्वच् is an alternate of विश्वच्. विश्व(ष्व)च् || अव्य० विषु विश्वं वा अञ्चति क्विप् पृषो० विश्वस्य विशुः ततः सप्तम्याद्यर्थे असि तस्य लुक् । १ सर्वत इत्यर्थे । असेरभावे । २ सर्वत्रगामिनि त्रि० स्त्रियां विषूचो भत्वे विषू(शू)च इत्यादि । अद्र्यागमे विष्वद्र्यच् उक्तार्थे । भत्वे विष्वद्रीच इत्यादि । शमध्यतां भरत आह तन्मूलं मृग्यम् ।