संस्कृत-शब्दकोशः

विसंवाद विसारिणी

विसार

वाचस्पत्यम्

विसार ||‍ पुंस्त्री० विसरति सर्पति वि + सृ—ण । मत्स्ये अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

विसारः || पुं, (विशेषेण सरतीति । सृ गतौ + “व्याधिमत्स्यबलेष्विति वक्तव्यम् ।” ३ । ३ । १७ । इत्यस्य वार्त्तिकोक्त्या घञ् ।)
मत्स्यः । इत्यमरः ॥ (भावे घञ् । निर्गमः । यथा, ऋग्वेदे । १ । ७९ । १ । “हिरण्यकेशो रजसो विसारे ऽर्हिर्धुनिर्वात इव ध्रजीमान् ॥” “रजस उदकस्य विसारे विसरणे मेघार्न्निर्ग- मने ।” इति तद्भाष्ये सायणः ॥)



Correction: