वाचस्पत्यम्
विसृत्वर || त्रि० वि + सृ—क्ष्वरप् । प्रसरणशीले अमरः । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
विसृत्वरः || त्रि (विसरति तच्छीलः । वि + सृ + “इण्नश्जिसर्त्तिभ्यः क्वरप् ।” ३ । २ । १६३ । इति क्वरप् । ह्नस्वस्येति तुक् ।)
प्रसरणशीलः । इत्यमरः ॥ “विसरणम् । गतिविशेषः । विसृ- त्वरो नदः । विसृत्वरी नदी । विसृत्वरं तैल- मित्यादि । विसरति विसृत्वरः सृ गतौ क्ष्वरप्- सृजीणिति क्ष्वरप् स्वस्य तन् पिति तन् ।” इति भरतः ॥