वाचस्पत्यम्
विस्तृत || त्रि० वि + स्तृ—क्त । विस्तारयुक्ते ।
शब्दकल्पद्रुमः
विस्तृतः || त्रि (वि + स्तृ + क्तः ।)
लब्धविस्तारः । तत्पर्य्यायः । विसृतम् २ ततम् ३ । इत्यमरः ॥ (यथा, भागवते । २ । २४ । ६० । “तत्त्वं ब्रह्मपरं ज्योतिराकाशमिव विस्तृतम् ॥”)