शब्दकल्पद्रुमः
विस्पष्टः || त्रि (विशेषेण स्पष्टः ।) सुस्पष्टः । यथा, “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् ॥” इति तिथ्यादितत्त्वम् ॥