संस्कृत-शब्दकोशः

विस्पष्ट विस्फारित

विस्फार

शब्दकल्पद्रुमः

विस्फारः || पुं, (वि + स्फुर + धञ् । “स्फुरति- स्फुलत्योर्घञि ।” ८ । ३ । ७६ । इत्यात्वम् ।)
धनु- र्गुणशब्दः । इत्यमरः ॥ अस्य विवरणं मूर्द्धन्य- षकारमध्यविष्फारशब्दे द्रष्टव्यम् ॥ (यथा, महाभारते । ३ । २७९ । ३६ । “विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ ॥” विस्तृतिः । यथा, साहित्यदर्पणे । ३ । २०७ । “विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥”)



Correction: