शब्दकल्पद्रुमः
विस्फारितः || त्रि प्रकाशितः । चलितः । विपूर्ब्ब- ञ्यन्तस्फरधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, महाभारते । ३ । ११ । २० । “स नष्टमायोऽतिबलो क्रोधविस्फारितेक्षणः । काममूर्त्तिधरः क्रूरः कालकल्पो व्यदृश्यत ॥” निर्घोषितः । यथा, किराते । १४ । ३० । “उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ॥”)