वाचस्पत्यम्
विस्फोट || पु० विस्फोटयति वि + स्फुट—णिच्—अच् । (विष- फोडा) व्रणभेदे स्वार्थे क । स्फोटकमेदे “विस्फोटकभया- पहा” शीतलास्तोत्रम् । तद्रोगनिदानादि भावप्र० उक्तं यथा “तत्र विस्फोटस्य विप्रकृष्टं निदानपूर्विकां संप्राप्तिमाह “कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च । तथर्तुदोषेण विपर्य्ययेण कुप्यन्ति दोषाः पवनादयस्तु । त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदुष्य च । घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान्” । ऋतुदोषेण ऋतुहेतुकशीतोष्णादीनामतियोगेन । विपर्य्ययेण अतू- चिताहारविहारवैपरीत्येन । त्वचमाश्रित्य त्वचि विस्थो- टान् कुर्वन्तीत्यर्थः । ज्वरपुरःसरान् ज्वरपूर्वान् । पूर्व- रूपमाह “अग्निदग्धा इव स्फोटवः सज्वरा रक्तपित्तजाः । क्वचित् सर्वत्र वा देहे विस्फाटा इति ते स्मृताः” । रक्तपित्तजाः एतेन सर्वेषु विस्फोटकेषु रक्तपित्तयोः प्र- धानकारणत्वम् यथा शूलेषु वातस्य, तथा वातानुगति- रपि बोद्धव्या । तथा च भोजः “यदा रक्तञ्च पित्तञ्च वातेनानुगतं त्वचि । अग्निदग्धनिभान् स्फोटान् कुरुतः सर्वदेहगान्” । अथ वातिकमाह “शिरोरुक्शूलभूयिष्ठं ज्वरतृट्पर्ववेदनम् । सकृष्णवर्णता चेति वातविस्फोट- लक्षणम्” । शूलं तोदरूपम् । अथ पैत्तिकमाह “ज्वर- दाहरुजापाकस्रावतृष्णासमन्वितम् । षीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम्” । श्लैष्मिकमाह “छर्धारोचकजा- ड्यानि कण्डूकाठिन्यपाण्डुताः । यस्मिन्नरुक् चिरात् पाकः स विस्फोटः कफात्मकः । जांव्यम् जडस्वमङ्गा- नाम् । कफपैत्तिकमाह “कण्डूर्दाहो ज्वरश्छर्दिरेतैश्च कफपैत्तिकः” । अथ वातपित्तजमाह “वातपित्तकृतोयस्तु तत्र स्यात्तीव्रवेदना” । वातश्लैष्मिकमाह “कण्डूस्तै- मित्यगुरुभिर्जानीयात् कफवातिकम्” । सान्निपातिकमाह “मध्ये निम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान् । दाहरा- गतृषामोहच्छर्दिमूर्च्छारुजाज्वराः । प्रलापो वेपथुर्मूर्च्छा सोऽसाध्यश्च त्रिडोषजः” । मोहो विपरीतं ज्ञानम् मूर्च्छा सर्वथा ज्ञानशून्यता । रक्तजमाह “वेदितव्याश्च र- क्तेन पैत्तिकेन च हेतुना । गुञ्जाफलसमा रक्ता रक्त- स्रावा विदाहिनः । न ते सिद्धिं समायान्ति सिद्धैर्योगि- शतैरपि” । पैत्तिकेन हेतुना पित्तस्य हेतुना कष्ट्वादिना- रक्तपित्तस्य तुल्यत्वात् सिद्धैर्योगिशतैरपि ते सिद्धिं न स मायान्ति । विस्फोटकभेदानाह “एते चाष्टविधा वाह्या आन्तरोऽपि भवेदयम् । तस्मिन्नन्तर्व्यथा तीव्रा ज्वर युक्ताभिजायते । यस्मिन् वहिर्गते स्वास्थ्यं न वातस्य वहिर्गतिः । तत्र वातिकविस्फोटक्रिया कार्य्या विजानता” एतेषामुपद्रवानाह “तृट्श्वासमांससङ्कोचदाहहि क्कामद- ज्वराः । विसर्पमर्मसंरोधास्तेषामुक्ता उपद्रवाः” । मांस- सङ्कोचः मांसस्य शठितम् । मर्मसंरोधो मर्मव्यथा । तेषां विस्फोटानां केचिदुपद्रवाणां लक्षणान्तरं पठन्ति “हिक्का- श्वासाऽरुचिस्तृष्णा साङ्गमर्द्दा हृदिव्यथा । विसर्पज्वरहृ- ञ्जासाः विस्फाटानामुपद्रवाः” । साध्यत्वादिकमाह “एक- ष्टोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः । सर्वरूपा- न्वितो घोरो ह्यसाध्यो भूर्य्युपद्रवः” । २ कुष्ठभेदे “स्फोटाः श्यावारुणाभासा विस्फोटास्तु तनुत्वचः” भावप्र० ।
शब्दकल्पद्रुमः
विस्फोटः || पुं, (विस्फोटतीति । वि + स्फुट् + अच् ।)
विरुद्धस्फोटकः । विस्फोडा इति भाषा । तत्पर्य्यायः । पिठकः २ पिटका ३ पिटकम् ४ । इत्यमरः । विटकः ५ विटका ६ विटकम् ७ । इति तट्टीका ॥ स्फोटकः ८ स्फोटः ९ । इति राजनिर्घण्टः ॥ (यथा, कथासरित्सागरे । ८५ । १८ । “किमेतदिति संभ्रान्तः प्रबुद्धोऽथ ददर्श सः । उत्थाय राजा विस्फोटानङ्गे तस्या विनि- र्गतान् ॥”)
तस्य विप्रकृष्टनिदानपूर्व्विकां संप्राप्तिमाह । “कट्वम्लतीक्ष्णोष्णविदाहिरूक्ष- क्षारैरजीर्णाध्यशनातपैश्च । तथर्त्तुदोषेण विसर्पणेन कुप्यन्ति दोषा पवनादयस्तु ॥ त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदुष्य च । घोरान् कुर्व्वन्ति विस्फोटान् सर्व्वज्वरपुरः- सरान् ॥” ऋतुदोषेण ऋतुहेतुकशीतोष्णादीनामतियोगेन । ऋतूचिताहारविहारवैपरीत्येन त्वचमाश्रित्य विस्फोटान् कुर्व्वन्तीत्यर्थः । ज्वरपुरःसरान् ज्वरपूर्ब्बान् ॥ * ॥
रूपमाह । “अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्तजाः । क्वचित् सर्व्वत्र वा देहे विस्फोटा इति ते स्मृताः ॥” रक्तपित्तजाः एतेन सर्व्वेषु विस्फोटेषु रक्त- पित्तयोः प्रधानकारणत्वम् । यथा शूलेषु वातस्य तथा वातानुगतिरपि बोद्धव्या । तथा च भोजः । “यदा रक्तञ्च पित्तञ्च वातेनानुगतं त्वचि । अग्निदग्धनिभान् स्फोटान् कुरुतः सर्व्वदेह- गान् ॥” * ॥
वातिकमाह । “शिरोरुक्शूलभूयिष्ठज्वरतृट्पर्व्वभेदनम् । सकृष्णवर्णतां चेति वातविस्फोटलक्षणम् ॥” शूलमत्र तोदरूपम् ॥ * ॥
पैत्तिकमाह । ज्वरदाहरुजापाकः स्रावस्तृष्णासमन्वितम् । पीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम् ॥” रुजादित्रयं स्फोटेषु ॥ * ॥
वातपैत्तिकमाह । “वातपित्तकृतो यस्तु तत्र स्युस्तीव्रवेदनाः । स्तैमित्यं गौरवं कण्डुर्भवेद्वातवलासजे ॥” * ॥
पित्तश्लैष्मिकमाह । “कण्डूर्दाहो ज्वरश्छर्द्दिर्जायते कफपैत्तिके ॥” सान्निपातिकमाह । “मध्य निम्नोन्नतस्तोदः कठिनः स्वल्पपाकवान् । रागदाहतृषामोहच्छर्द्दिमूर्च्छारुजाज्वराः । प्रलापो वेपथुर्यत्र सोऽसाध्यश्च त्रिदोषजः ॥” मोहो विपरीतज्ञानम् । मूर्च्छा सर्व्वथा ज्ञान- शून्यता ॥ * रक्तजमाह । “वेदितव्याश्च रक्तेन पैत्तिकेन च हेतुना । गुञ्जाफलसमा रक्ता रक्तस्रावा विदाहिनः । न ते सिद्धिं समायान्ति शुद्धैर्योगशतैरपि ॥” पैत्तिकेन च हेतुना पित्तस्यहेतुना कट्वादिना रक्तस्य पित्तस्य तुल्यत्वात् न च ते साध्याः । “एते चाष्टविधा बाह्या आन्तरोऽपि भवेदयम् । तस्मिन्नन्तर्व्व्यथा तीव्रा ज्वरयुक्ताभिजायते ॥ तस्मिन् बहिर्गते स्वास्थ्यन्तु व्यानस्य वहिर्गतिः । तत्र वातिकविस्फोटक्रिया कार्य्या विजानता ॥” उपद्रवानाह । “तृट्श्वासमांससङ्कोथदाहहिक्कामदज्वराः । विसर्पमर्म्मसंरोधास्तेषामुक्ता उपद्रवाः ॥” मांससङ्कोथः मांसस्य शठितत्वम् । मर्म्मसंरोधो मर्म्मव्यथा । तेषां विस्फोटकानाम् ॥ * ॥
केचिदुपद्रवाणां लक्षणान्तरं पठन्ति । “हिक्का श्वासोऽरुचिस्तृष्णा स्वाङ्गमर्द्दो हृदि- व्यथा । विसर्पज्वरहृल्लासा विस्फोटानामुपद्रवाः ॥” साध्यत्वादिकमाह । “एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्बिदो- षजः । सर्व्वरूपान्वितो घोरो ह्यसाध्यो भूर्य्युपद्रवः ॥” अथ विस्फोटस्य चिकित्सा । “विस्फोटे लङ्घनं कार्य्यं वमनं पथ्यभोजनम् । यथादोषबलं वीक्ष्य प्रयुञ्ज्याच्च विरेचनम् ॥ * ॥
जीर्णः शालिर्यवा मुद्गा मसूराश्चाढकी तथा । एतान्यन्नानि विस्फोटे हितानि मुनयोऽब्रुवन् ॥ द्वे पञ्चमूल्यौ रास्ना च दार्व्युशीरं दुरालभा । गुडूची धान्यकं मुस्तमेषां क्वाथं पिबेन्नरः । विस्फोटान्नाशयत्याशु समीरणनिमित्तकान् ॥ द्राक्षाकाश्मर्य्यखर्ज्जूरपटोलारिष्टवासकैः । कटुकालाजदुस्पर्शैः पैत्तिके ससितं घृतम् ॥ भूनिम्बसवचावासात्रिफलेन्द्रसवत्सकैः । पिचुमर्द्दपटोलाभ्यां कफजे मधुयुक् शृतम् ॥ * ॥
किराततिक्तकारिष्टयष्ट्याह्वाम्बुदवासकैः । पटोलपर्पटोशीरत्रिफलाकोटजान्वितैः ॥ क्वथितैर्द्वादशाङ्गन्तु सर्व्वविस्फोटनाशनम् ॥ * ॥
विस्फोटव्याधिनाशाय तण्डुलाम्बुदपेषितैः । बीजैः कुटजवृक्षस्य लेपः कार्य्यो विजानता ॥ * छिन्ना पटोलभूनिम्बवासकारिष्टपर्पटैः । खदिराब्दयुतैः क्वाथो हन्ति विस्फोटकं ज्वरम् ॥ चन्दनं नागपुष्पञ्च सारिवा तण्डुलीयकम् । शिरीषवल्कलं जाती लेपः स्याद्दाहनाशनः ॥” “उत्पलं चन्दनं लोध्रमुशीरं शारिवाद्वयम् । जलेन पिष्टं लेपेन स्फोटदाहार्त्तिनाशनम् ॥ * ॥
पुत्त्रजीवस्य मज्जानं जले पिष्ट्वा प्रलेपयेत् । कालस्फोटं विषस्फोटं सद्यो हन्यात् सवेदनम् ॥ कक्षाग्रन्थिं गलग्रन्थिं कर्णग्रन्थिञ्च नाशयेत् । अन्यच्च स्फोटकं ताम्रं पुत्त्रजीवो विनाशयेत् ॥” इति विस्फोटकाधिकारः । इति भावप्रकाशः ॥ अन्यच्च । “मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला । देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥ विशाला करवीरञ्च अर्कक्षीरं सकृत्पलम् । एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥ प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् । मृत्पात्रे लौहपात्रे वा शनैर्मृद्बग्निना पचेत् ॥ पामा विचर्च्चिका चैव दद्रुविस्फोटकानि च । अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥ प्रसूतान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् । चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणात् भवेत् ॥” अपि च । “भूनिम्बनिम्बत्रिफलापर्पटैश्च शृतं जलम् । पटोलमुस्तकाभ्याञ्च वासकेन च नाशयेत् । विस्फोटकानि व्यक्तानि नात्र कार्य्या विचा- रणा ॥” इति गारुडं १९८ अध्यायः ॥ * ॥
विस्फोटकस्य स्वरूपं यथा, भावप्रकाशे । “स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनु- त्वचः ॥”