वाचस्पत्यम्
विस्मय || पु० वि + स्मि—अच् । १ आश्चर्य्ये अमरः । २ अद्भुत- स्थायिभावके रसभेदे सा० द० । “विविधेषु पदार्थेषु लोक- सीमातिवर्त्तिषु । विस्फारश्चेतसो यस्तु स विस्मय उदा- हृतः” सा० द० । ३ दर्पे मेदि० ४ सन्देहे शब्दर०
शब्दकल्पद्रुमः
विस्मयः || पुं, (वि + स्मि + “एरच् ।” इत्यच् ।)
आश्चर्य्यम् । तत्पर्य्यायः । अहो २ ही ३ । इत्यमरः ॥ “अन्यदद्भुतशब्दे द्रष्टव्यम् । ‘अद्भुतो विस्मयस्थायिभावो गन्धर्व्वदैवतः । पीतवर्णो वस्तु लोकातिगमालम्बनं मतम् ॥’ इति भावरसयोः पर्य्यायत्वं अद्भुतस्य विस्मय- स्थायिभावात्मकत्वात् ।” इति भरतः ॥ * ॥
तस्य लक्षणम् । यथा, —
“विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु । विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥” इति साहित्यदर्पणम् ॥ (अस्मात्तपःक्षयो भवति । यथा, मनुः । ४ । २३७ । “यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ॥”)
दर्पः । इति मेदिनी ॥ सन्देहः । इति शब्द- रत्नावली ॥ (विगतः स्मयो गर्व्वो यस्येति । नष्टगर्व्वे, त्रि । यथा, भागवते । ३ । १७ । ३० । “तं वीरमारादभिपद्य विस्मयः शयिस्यसे वीरशये श्वभिर्वृतः ॥”)