संस्कृत-शब्दकोशः

विस्रुत विहङ्ग

विहग

वाचस्पत्यम्

विहग ||‍ पुंस्त्री० विहायसा गच्छति गम—ड नि० । १ पक्षिणि अमरः स्त्रियां ङीष् । २ बाणे ३ सूर्य्ये ४ चन्द्रे ५ मेथे च पु० शब्दरत्ना० । ६ सूर्य्यादिग्रहे पु० धरणिः ।


शब्दकल्पद्रुमः

विहगः || पुं, (विहायसा गच्छतीति । गम् + “प्रिय- वशेति ।” ३ । २ । ३८ । इत्यत्र “डेच विहायसो विहादेशो वक्तव्यः ।” इति काशिकोक्तेः डप्रत्यये विहायःशब्दस्य विहादेशः ।)
पक्षी । इत्य- मरः ॥ (यथा, भागवते । ४ । १८ । २४ । “सुपर्णवत्सा विहगाश्चरञ्चाचरमेव च ॥”)
बाणः । (यथा, महाभारते । ७ । १९३ । ४० । “अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ॥”)
सूर्य्यः । चन्द्रः । इति शब्दरत्नावली ॥ ग्रहः । इति धरणिः ॥



Correction: