शब्दकल्पद्रुमः
विहरणं || क्ली विहारः । विपूर्व्वकहृधातोरनट्- प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, भागवते । १० । ३१ । १० । “विहरणञ्च ते ध्यानमङ्गलम् ॥” प्रसारणम् । यथा, पाणिनौ । १ । ३ । २० । “आङो दोऽनास्यविहरणे ॥” आहरणम् । यथा, मार्कण्डेये । १६ । ३७ । “नाग्निविहरणञ्चैव क्रत्वभावश्च लक्ष्यते । नवाप्यायनमस्माकं विना होमेन जायते ॥”)