वाचस्पत्यम्
विहीन || त्रि० वि + हा—क्त । १ त्यक्ते २ वर्जिते च ।
शब्दकल्पद्रुमः
विहीनः || त्रि (वि + हा + क्तः ।)
विशेषेण हीनः । यथा, तन्त्रसारे । “षोढान्यासविहीनो यः प्रणमेद्देवि पार्व्वतीम् । सोऽचिरान्मृत्युमाप्नोतिं नरकञ्च प्रपद्यते ॥” त्यक्तः । यथा, —
“विहीनश्च धनैर्दारै पुत्त्रैरादाय मे धनम् । वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥