वाचस्पत्यम्
वी || कान्तौ जनने च अक० गतो व्याप्तो क्षेपे भोजने च सक० अदा० पर० अनिट् । येति अवैषीत् ।
शब्दकल्पद्रुमः
वीः || पुं, (वयनमिति । वी गतौ + न्यङ्क्वादित्वात् भावे क्विप् । अभिधानात् पुंस्त्वम् ।)
गमनम् । इत्ये- काक्षरकोषः ॥
शब्दकल्पद्रुमः
वी || ल ईलवत् । कान्तिगतिव्याप्तिक्षेपप्रजनखादने । इति कविकल्पद्रुमः ॥ (अदा०-पर० कान्तौ अक०-गतौ व्याप्तौ क्षेपे प्रजने खादने च सक०- अनिट् ।)
ल, वेति । इति दुर्गादासः ॥