संस्कृत-शब्दकोशः

विह्वलता वीक

वी

वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु


गणः- अदादिः
कर्मकः-यथायथं सकर्मकोऽकर्मकश्च
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- वेति

अर्थ−
१. जानु,
२. ढाक्नु, व्याप्त हुनु, घेर्नु, आक्रमण गर्नु,
३. गर्भवती हुनु,
४. इच्छा गर्नु,
५. फ्याँक्नु, पठाउनु, दौडाउनु,
६. खानु, भक्षण गर्नु ।
सम्-
१. घेर्नु, लपेट्नु ।

कृदन्तरूपमाला

  • 1“वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु” 2 3 ‘ईज’ इत्यत्र ‘वीजेरलौकिकादवीजयत्’ इति क्षीरतरङ्गिण्यां दृश्यते।
  • ‘वीज- धातुः शास्त्रेष्वपठितोऽपि लोके लब्धप्रचार इत्यर्थः।
  • ‘संवीजते’ इति प्रयोगस्तु जाम्बवतीविजये दृश्यते यथा-- ‘घर्मालसाङ्गी मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम्।।’ इति तट्टीकायामुक्तम्।
  • ‘वीजन्ति वालव्यजनैः--’ इति हरिवंशे 4 5 इति च। अत्र व्याप्तिः इत्यर्थः धातुवृत्ति, क्षीरतरङ्गिणी, जै, का।
  • कृ, द।
  • उ।
  • वृत्ति।
  • कातन्त्रशाकटायनीयेषु न दृश्यते।
  • “प्रजनः = प्रथमगर्भग्रहणम्, असनं = क्षेपणं, अशनं = व्याप्तिरित्येके” इति क्षीरस्वामी।
  • ‘प्रजननकान्त्यासन- खादनेषु च’ इति काशकृत्स्नधातुपाठे।
  • “कन्नडटीकायाम् आसनार्थस्य निर्देशात् काशकृत्स्ने ‘आसन’ इति पाठो द्रष्टव्यः।
  • यद्वा मूलपाठे प्रमाद- पठितस्यैव टीकाकृता तथा व्याख्यानं कृतं स्यात्” इति का।
  • कृ।
  • टीका।
  • ‘अजेर्व्यघञपोः’ 6 इति सूत्रभाष्यरीत्या अस्य धातोः आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम्।
  • “‘वी’ इत्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते” इति सि।
  • कौमुदी।
  • ‘--कान्तिगतिव्याप्तिक्षेपप्रजन- खादनेषु’ इति वोपदेवः।
  • वायकः-यिका, वायकः, 7 वापकः-पिका, 8 विवीषकः-षिका, वेवीयकः-यिका;
  • 9 वेता-त्री, वाययिता-वापयिता-त्री, विवीषिता-त्री, वेवीयिता-त्री;
  • 10 वियन्-ती, वाययन्-पुरोवातो गाः, प्रवापयन्, वापयन्-न्ती, विवीषन्-न्ती;
  • -- वेष्यन्-न्ती-ती, वाययिष्यन्-वापयिष्यन्-न्ती-ती, विवीषिष्यन्-न्ती-ती;
  • -- इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकलिनातिवत् 11 ज्ञेयानि, प्राति- स्विकरूपाणि विना।
  • निष्ठायाम् वीतम्-तः, 12 वयः, क्तिनि-वीतिः, वेणिः 13, वेणुः 14, वीणा 15, 16 वेतनम्, 17 वेत्रम्, 18 वेतसः, वयः, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्ति।

प्रासङ्गिक्यः

  • (१६१७)
  • (२-अदादिः-१०४८, सक। अनि। पर।)
  • [अ]
  • (१३-९२)
  • (म। भारते ७-३०७)
  • (२-४-५६)
  • १। ‘प्रजने वीयतेः’ (६-१-५५) इति प्रजने वर्तमानस्य णौ विभाषा आत्वे, पुकि च रूपमेवम्।
  • २। सन्नन्तात् ण्वुलि ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः।
  • [पृष्ठम्१२४५+ २६]
  • १। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि प्रकृतेः इत्यङादेशे च रूपमेवम्।
  • (१४९२)
  • २। ‘एरच्’ (३-३-५६) इति भावे अकर्तरि च कारके संज्ञायामच्प्रत्यये रूपम्। घञोऽपवादः।
  • ३। ‘वीज्याज्वरिभ्यो निः’ (द। उ। १-१८) इति निप्रत्ययः। बाहुलकात् णत्वम्। वेणिः = केशबन्धः।
  • ४। औणादिके (द। उ। १-१४८) णुप्रत्यये रूपमेवम्। वेणुः = वंशः। अत्रापि बाहुल- कादेव णत्वम्।
  • ५। औणादिके (द। उ। ५-४७) नप्रत्ययो णत्वं गुणाभावश्च निपातनात्। तेन रूपमेवम्। वेति जायते स्वरोऽस्यामिति वीणा = वल्लकी। ‘वीणा तु वल्लकी। विपञ्ची’ इत्यमरः।
  • ६। ‘वीपतिभ्यां तनन्’ (द। उ। ६-५६) इति तनन्प्रत्ययः। वेतनम् = भृतकदानम्। भृतकर्मकधनमिति केचित्।
  • ७। ‘गुधृवी--’ (द। उ। ८-८९) इति त्रप्रत्यये रूपमेवम्। वेत्रम् = वीरुद्विशेषः।
  • ८। ‘वियस्तुट् च’ (द। उ। ९-४५) इति अचस्प्रत्यये तुडागमे च रूपमेवम्। बेतसः = काष्ठजातिः।



Correction: